________________
॥ श्रीगणेशायनमः ॥
अथवैशाखमा समाहात्म्यारम्भः प्रथमोऽध्यायः
सवैशाखमासप्रशंसनं तन्मासस्नानमाहात्म्यवणनम्
नारायणं नमस्कृत्य नरश्चैव नरोत्तमम् | देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्
सूत उवाच
भूयोऽप्यङ्गभुवं राजा ब्रह्मणः परमेष्ठिनः । पुण्यं माधवमाहात्म्यं नारदं पर्यपृच्छत अम्बरीष उवाच
सर्वेषामपि मासानां त्वत्तो माहात्म्यमञ्जसा । श्रतं मया पुरा ब्रह्मन्यदाचोक्तं तदात्वया वैशाखः प्रवरो मासो मासेष्वेतेषु निश्चितम् ।
इति तस्माद्विस्तरेण माहात्म्यं माधवस्य च ॥ ३ ॥
श्रोतुं कौतूहलं ब्रह्मन्कथं विष्णुप्रियोह्यसौ । के च विष्णुप्रियाधर्मामासेमाधववल्लभे तत्राऽप्यस्य तु कर्तव्याः के धर्मा विष्णुवल्लभाः ।
किं दानं किं फलं तस्य कमुद्दिश्याऽऽचरेदिमान् ॥ ५ ॥
कैर्द्रव्यैः पूजनीयोऽसौ माधवो माधवागमे । एतन्नारद! विस्तार्य मह्यंश्रद्धावतेवद् ॥
श्रीनारद उवाच
मया पृष्टः पुरा ब्रह्मामासधर्मान्पुरातनान् । व्याजहारपुराप्रोक्तं यच्छ्रियै परमात्मना ततो मासा विशिष्योक्ताः कार्त्तिको मात्र एव च ।
मात्रवस्तेषु वैशाखं मासानामुत्तमं व्यधात् ॥ ८ ॥
प्रथमोऽध्यायः ]
* वैशाख ज्ञानमहात्म्य वर्णनम् *
६०१
मातेव सर्वजीवानां सदैवेष्ट प्रदायकः । दानयज्ञव्रतस्नानैः सर्वपापविनाशनः ॥ ६ ॥ धर्मयज्ञक्रियासारस्तपःसारः सुरार्चितः । विद्यानां वेदविद्येव मन्त्राणां प्रणवोयथा भूरुहाणां सुरतरुर्धेनूनां कामधेनुवत् । शेषवत्सर्वनागानां पक्षिणां गरुडो यथा ॥ देवानां तु यथाविष्णुर्वर्णानां त्राह्मणो यथा । प्राणवत्प्रियवस्तूनां भार्येव सुहृदांयथा आपगानां यथा गङ्गा तेजसांतुर विर्यथा । आयुधानां यथा चक्रं धातूनांकाञ्चनंयथा वैष्णवानांयथारुद्रोरत्नानांकौस्तुभोयथा । मासानां धर्महेतृनां वैशाखश्चोत्तमस्तथा नाऽनेन सदृशो लोके विष्णुप्रीतिविधायकः ।
वैशाख स्नाननिरते मेषे प्रागर्यमोदयात् ॥ १५ ॥
लक्ष्मीसहायो भगवान्प्रीति तस्मिन्करोत्यलम् । जन्तूनांप्रीणनंयद्वदन्नेनैव हि जायते तद्वद्वैशाखनानेन विष्णुः प्रीणात्यसंशयम् । वैशाखस्नान निरताञ्जनान्दृष्ट्वाऽनुमोदते ॥ तावतापिविमुक्तोऽधैर्विष्णुलोके महीयते । सकृत्स्नात्वामे पसंस्थेसूर्ये प्रातः कृताह्निकः महापापैर्विमुक्तोऽसौ विष्णोः सायुज्यमाप्नुयात् । स्नानार्थं मासि वैशाखे पादमेकं चरेद्यदि ॥ १६॥ सोऽश्वमेधायुतानाञ्चफलमाप्नोत्यसंशयम् ।
अथवाकूटचित्तस्तु कुर्यात्सङ्कल्पमात्रकम् ॥ २० ॥
सोऽपिक्रतुशतं पुण्यं लभेदेव न संशयः । यो गच्छेद्धनुरायामं स्नातुं मेषगते रवौ सर्वबन्धविनिर्मुक्तो विष्णोः सायुज्यमाप्नुयात् ।
त्रैलोक्ये यानि तीर्थानि ब्रह्माण्डान्तर्गतानि च ॥ २२ ॥ तानि सर्वाणि राजेन्द्र ! सन्ति बाह्येऽल्पके जले | तावल्लिखितपापानि गर्जन्ति यमशासने ॥ २३ ॥
यावन्न कुरुते जन्तुर्वैशाखे स्नानमम्भसि । तीर्थादिदेवताः सर्वा वैशाखेमासिभूमिप ! बहिर्जलं समाश्रित्यसदासन्निहितानृप । सूर्योदयं समारभ्य यावत्पघटिकावधि ॥ तिष्ठन्ति चाऽऽज्ञया विष्णोर्नराणां हितकाम्यया । तावन्नागच्छतां पुंसां शापं दत्त्वा सुदारुणम् ॥
:
|